Home » Class 7 » Class 7 Sanskrit Chapter 4-हास्यबालकविसम्मेलनम्- Hindi Translation & English Translation

Class 7 Sanskrit Chapter 4-हास्यबालकविसम्मेलनम्- Hindi Translation & English Translation

CBSE Ruchira Bhag 2- Class 7 Sanskrit Chapter 4-हास्यबालकविसम्मेलनम्– translation in Hindi (Hindi Anuvad), हिंदी अनुवाद, Hindi meaning, Hindi arth, Hindi summary, English Translation, and English Summary are provided here. That Means, word meanings (शब्दार्थ:), अन्वयः, सरलार्थ, are given for the perfect explanation of Ruchira भाग 2- Sanskrit Class 7 Chapter 4-हास्यबालकविसम्मेलनम्।

Translation in Hindi & English (Anuvad)

चतुर्थ: पाठः
हास्यबालकविसम्मेलनम्

हास्य बाल कवि सम्मेलन

(विविध-वेशभूषाधारिणः चत्वारः बालकवयः मञ्चस्य उपरि उपविष्टाः सन्ति। अधः श्रोतार: हास्यकविताश्रवणाय उत्सुकाः सन्ति कोलाहलं च कुर्वन्ति)

संचालकः अलं कोलाहलेन अद्य परं हर्षस्य अवसरः यत् अस्मिन् कविसम्मेलने काव्यहन्तारः कालयापकाश्च भारतस्य हास्यकविधुरन्धराः समागताः सन्ति। एहि , करतलध्वनिना वयम् एतेषां स्वागतं कुर्मः।

गजाधरः – सर्वेभ्योऽरसिकेभ्यो नमो नमः। प्रथमं तावद् अहम् आधुनिक वैधम् उद्धिश्य स्वकीयं कव्यं श्रावयामि –

वैद्यराज! नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान् वैध: प्राणान् धनानि च ।

(सर्व उचै: हसन्ति)

कालान्तकःअरे! वैद्यास्तु सर्वत्र परन्तु न ते मादृशाः कुशलाः जनसंख्यानिवारणे।
ममापि काव्यम् इदं शृण्वन्तु भवन्तः-

चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः
नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥

(सर्वे पुनः हसन्ति)

तुन्दिलः – (तुन्दस्य उपरि हस्तम् आवर्तयन्) तुन्दिलोऽहं भोः। ममापि इदं
काव्यं श्रूयताम्, जीवने धार्यतां च-

परान्नं प्राप्य दुर्बुद्धे! मा शरीरे दयां कुरु ।
परान्नं दुर्लभं लोके शरीराणि पुनः पुनः ॥

(सर्वे पुनः अट्टहासं कुर्वन्ति)

चार्वाकः – आम्, आम्। शरीरस्य पोषणं सर्वथा उचितमेव। यदि धनं नास्ति, तदा ऋणं कृत्वापि पौष्टिक: पदार्थः एव भोक्तव्यः। तथा कथयति चार्वाककविः- यावज्जीवेत् सुखं जीवेद् ऋणं कृत्वा घृतं पिबेत्।

श्रोतार: तर्हि ऋणस्य प्रत्यर्पणं कथम्?

चार्वाकः – श्रूयतां मम अवशिष्टं काव्यम्- घृतं पीत्वा श्रमं कृत्वा ऋणं प्रत्यर्पयेत् जनः ॥

(काव्यपाठश्रवणेन उत्प्रेरितः एकः बालकोऽपि आशुकवितां रचयति,
हासपूर्वकं च श्रावयति)

बालक: – श्रूयताम्, श्रूयतां भोः! ममापि काव्यम्-

गजाधरं कविं चैव तुन्दिलं भोज्यलोलुपम् ।
कालान्तकं तथा वैद्यं चार्वाकं च नमाम्यहम् ॥

(काव्यं श्रावयित्वा ‘हा हा हा’ इति कृत्वा हसति। अन्ये चाऽपि हसन्ति।
सर्वे गृहं गच्छन्ति।)

👍👍👍

Leave a Comment

error: