Last Updated on 20/08/2026 by MakeToss
CBSE Ruchira भाग 3- NCERT Solutions for Class 8 Sanskrit Chapter 12-कः रक्षति कः रक्षितः-अभ्यासः (textbook Questions and Answers) is provided here.
NCERT Solutions (Question-Answer)
द्वादश: पाठः
कः रक्षति कः रक्षितः
अभ्यासः
1. प्रश्नानामुत्तराणि एकपदेन लिखत–
(क) केन पीडितः वैभवः बहिरागतः?
उत्तरम्- प्रचण्डोष्मणा।
(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
उत्तरम्- वृक्षाः।
(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?
उत्तरम्- अवकरभाण्डारम्।
(घ) वयं शिक्षिताः अपि कथमाचरामः?
उत्तरम्- आशिक्षितेव।
(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
उत्तरम्- पर्यावरणस्य।
(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
उत्तरम्- तालुः।
2. पूर्णवाक्येन उत्तराणि लिखत–
(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
उत्तरम्- परमिन्दर् गृहात् बहिरागत्य वायुवेग: तु सर्वथा अवरुद्ध: इति पश्यति।
(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
उत्तरम्- अस्माभिः यत्र-तत्र बहुभूमिकभवनानां, भूमिगतमार्गाणाम्, विशेषतः मैट्रोमार्गाणांम् , उपरिगमिसेतूनाम् इत्यादिनाम् निर्माणाय वृक्षाः कर्त्यन्ते।
(ग) विनयः रोजलिनम्माहूय किं वदति?
उत्तरम्- विनयः रोजलिनम्माहूय ‘महोदये! कृपां कुरु मार्गे एतत् तु सर्वथा अशोभनम् कृत्यं . अस्मद्सद्रिशेभ्य: बालेभ्य: भवतीसदृशै: एवम् संस्कारा देया:’ इति वदति।
(घ) रोजलिन् आगत्य किं करोति?
उत्तरम्- रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरम् मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरकण्डोले पातयति।
(ङ) अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?
उत्तरम्- अन्ते जोसेफः पर्यावरणक्षायै उपायः बोधयति यत् पित्रो: शिक्षकाणाम् सहयोगेन पलास्टिकस्य विविधपक्षा: विचारणीया:। पर्यावरणेन सह पशव: अपि रक्षणीया:।
3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
(ग) वायुवेगः सर्वथाऽवरुद्ध: आसीत्।
(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।
उत्तरम्-
(क) कया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति?
(ख) धेनुः कै: सह प्लास्टिकस्यूतमपि खादति स्म?
(ग) कः सर्वथाऽवरुद्धः आसीत्?
(घ) सर्वे अवकरं संगृह्य कस्मिन् पातयन्ति?
(ङ) अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?
(च) सर्वे कम् प्राप्ताः प्रसन्नाः भवन्ति?
4. सन्धिविच्छेदं पूरयत–
(क) ग्रीष्मर्तौ – ……………………. + ऋृतौ
(ख) बहिरागत्य – बहिः + …………………….
(ग) काञ्चित् – ……………………. + चित्
(घ) तद्वनम् – ……………………. + वनम्
(ङ) कलमेत्यादीनि – ……………………. + आनन्दप्रदः + ………………….
(च) अतीवानन्दप्रदोऽयम् – …………………….
उत्तरम्-
(क) ग्रीष्मर्तौ – ग्रीष्म + ऋृतौ
(ख) बहिरागत्य – बहिः + आगत्य
(ग) काञ्चित् – काम् + चित्
(घ) तद्वनम् – तत् + वनम्
(ङ) कलमेत्यादीनि – कलम + इत्यादीनि
(च) अतीवानन्दप्रदोऽयम् – अतीव + आनन्दप्रदः + अयम्
5. विशेषणपदैः सह विशेष्यपदानि योजयत–
| काञ्चित् | अवकरम् |
| स्वच्छानि | स्वास्थ्यकरी |
| पिहिते | क्षतिः |
| स्वच्छता | शान्तिम् |
| गच्छन्ति | गृहाणि |
| अन्यत् | अवकरकण्डोले |
| महती | मित्राणि |
उत्तरम्-
| काञ्चित् | शान्तिम् |
| स्वच्छानि | गृहाणि |
| पिहिते | अवकरकण्डोले |
| स्वच्छता | स्वास्थ्यकरी |
| गच्छन्ति | मित्राणि |
| अन्यत् | अवकरम् |
| महती | क्षतिः |
6. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां समक्षं च न इति लिखत–
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
(घ) वायुं विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
उत्तरम्-
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः। – न
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति। – आम्
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते। – आम्
(घ) वायुं विना क्षणमपि जीवितुं न शक्यते। – आम्
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्। – न
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते। – न
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति। – आम्
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति। – आम्
7. घटनाक्रमामनुसारं लिखत–
(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।
उत्तरम्-
- (ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
- (च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
- (ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।
- (क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
- (छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
- (ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
- (ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
- (घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
👍👍👍
Wow 👍 nice one site
Wow