Sanskrit Class 8 Chapter 14- आर्यभटः -Hindi & English Translation

चतुर्दशः पाठः
आर्यभटः


[भारतवर्ष की अमूल्य निधि है ज्ञान – विज्ञान की सुदीर्घ परम्परा। इस परम्परा को सम्पोषित
किया प्रबुद्ध मनीषियों ने। इन्हीं मनीषियों में अग्रगण्य थे आ र्यभट। दशमलव पद्धति आदि
के प्रारम्भिक प्रयोक्ता आर्यभट ने गणित को नयी दिशा दी। इन्हें एवं इनके प्रवर्तित
सिद्धान्तों को तत्कालीन रूढिवादियों का विरोध झेलना पड़ा। बस्तुत: गणित को विज्ञान
बनाने वाले तथा गणितीय गणना पद्धति के द्वारा आकाशीय पिण्डों की गति का प्रवर्तन
करने वाले ये प्रथम आचार्य थे। आचार्य आर्यभट के इसी वैदुष्य का उद्घाटन प्रस्तुत
पाठ में है।]
पूर्वदिशायाम् उदेति सूर्यः पश्चिमदिशायां च अस्तं गच्छति इति दृश्यते हि लोके। परं.
न अनेन अवबोध्यमस्ति यत्सूर्यो गतिशील इति सूर्योऽचल: पृथिवी च चला या स्वकीये
अक्षे घूर्णति इति साम्प्रतं सुस्थापितः सिद्धान्तः। सिद्धान्तोऽयं प्राथम्येन येन प्रवर्तितः, स
आसीत् महान् गणितज्ञः ज्योतिर्विच्च आर्यभट:। पृथिवी स्थिरा वर्तते इति परम्परया
प्रचलिता रूढ़ि: तेन प्रत्यादिष्टा। तेन उदाहृतं यद् गतिशीलायां नौकायाम् उपविष्ट: मानवः

यत्सूया गातशाल इ्ति। सूर्याऽचलः पृथिवा च चला या स्वकय
अक्षे घूर्णति इति साम्रतं सुस्थापित: सिद्धान्तः । सिद्धान्तोऽयं प्राथम्येन येन प्रवर्तितः, स
आसीत् महान् गणितज्ञ: ज्योतिर्विच्च आर्यभट:। पृथिवी स्थिरा वर्तते इति परम्परया
प्रचलिता रूढि: तेन प्रत्यादिष्टा। तेन उदाहृतं यद् गतिशीलायां नौकायाम् उपविष्टः मानवः
नौकां स्थिरामनुभवति, अन्यान् च पदार्थान् गतिशीलान् अवगच्छति। एवमेव गतिशीलायां
पृथिव्याम् अवस्थितः मानवः पृथिवीं स्थिरामनुभवति सूर्यादिग्रहान् च गतिशीलान् वेत्ति।
476 तमे ख्रिस्ताब्दे (षट्सप्तत्यधिकचतुःशततमे वर्षे) आर्यभट: जन्म लब्धवानिति
तेनैव विरचिते ‘आर्यभटीयम्’ इत्यस्मिन् ग्रन्थे उल्लिखितम्। ग्रन्थोऽयं तेन त्रयोविंशतितमे

वयसि विरचितः। ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला
आसीत्। अनेन इदम् अनुमीयते यत् तस्य कर्मभूमि: पाटलिपुत्रमेव आसीत् ।
आर्यभटस्य योगदानं गणितज्योतिषा सम्बद्धं वर्तते यत्र संख्यानाम् आकलनं
महत्त्वम् आदधाति। आर्यभट: फलितज्योतिषशास्त्रे न विश्वसिति स्म। गणितीयपद्धत्या
कृतम् आकलनमाधृत्य एव तेन
प्रतिपादितं यद् ग्रहणं राहु-
केतुनामकौ दानवा
नास्ति
कारणम्। तत्र तु सूर्यचन्द्रपृथिवी
इति त्रीणि एव कारणानि। सूर्य
परित: भ्रमन्त्याः पृथिव्याः, चन्द्रस्य
परिक्रमापथेन संयोगाद् ग्रहणं
भवति। यदा पृथिव्या: छायापातेन
चन्द्रस्य प्रकाशः अवरुध्यते तदा
चन्द्रग्रहणं भवति। तथैव पृथ्वीसूर्योः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं
दृश्यते।
समाजे नतन्तानां वित्चाराणरां स्वीकरणो
पाय सामान्यज्ञनाः काठिन्यमनभवन्ति।

चन्द्रस्य प्रकाशः अवरुध्यते तदा
चन्द्रग्रहणं भवति। तथैव पृथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं
दृश्यते।
समाजे नूतनानां विचाराणां स्वीकरणे प्रायः सामान्यजना: काठिन्यमनुभवन्ति।
भारतीयज्योति:शास्त्रे तथैव आर्यभटस्यापि विरोध: अभवत्। तस्य सिद्धान्ता: उपेक्षिता:।
स पंण्डितम्मन्यानाम् उपहासपात्रं जात:। पुनरपि तस्य दृष्टिः कालातिगामिनी दृष्टा।
आधुनिकै: वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादर: प्रकटित:। अस्मादेव कारणाद्
अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।
वस्तुत: भारतीयायाः गणितपरम्परायाः अथ च विज्ञानपरम्परायाः असौ एकः
शिखरपुरुषः आसीत्।

Sanskrit class 8 Chapter 14- आर्यभटःHindi translation ended here!👍👍👍

About the Author:

Leave a Reply

Your email address will not be published. Required fields are marked *

error: