Home » Class 8 » Sanskrit Class 8 » Sanskrit Class 8 NCERT Exercise Solutions » NCERT Solutions for Class 8 Sanskrit Chapter 2- बिलस्य वाणी न कदापि मे श्रुता

NCERT Solutions for Class 8 Sanskrit Chapter 2- बिलस्य वाणी न कदापि मे श्रुता

NCERT Solutions for Class 8 Sanskrit Chapter 2- बिलस्य वाणी न कदापि मे श्रुता-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 2- बिलस्य वाणी न कदापि मे श्रुता

द्वितीय: पाठः
बिलस्य वाणी न कदापि मे श्रुता
अभ्यासः

NCERT Exercise Solutions

1. उच्चारणं कुरुत-

कस्मिंश्चित्विचिन्त्यसाध्विदम्
क्षुधार्तःएतच्छ्रुत्वाभयसन्त्रस्तमनसाम्
सिंहपदपद्धतिःसमाह्वानम्प्रतिध्वनिः

2. एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्?
उत्तरं – खरनखर:।

(ख) गुहाया: स्वामी क: आसीत्?
उत्तरं – दधिपुच्छ: (शृगालः)।

(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगत:?
उत्तरं – सूर्यास्तसमये।

(घ) हस्तपादादिका: क्रियाः केषां न प्रवर्तन्ते?
उत्तरं – भयसन्त्रस्तमनसां ।

(ङ) गुहा केन प्रतिध्वनिता?
उत्तरं – सिंहस्य उच्चगर्जनेन।

3. पूर्णवाक्येन उत्तरत-

(क) खरनखर: कुत्र प्रतिवसति स्म?
उत्तरं – कस्मिंश्चित् वने खरनखर: नाम सिंहः प्रतिवसति स्म।

(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
उत्तरं – महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत् – “नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अत: अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

(ग) शृगालः किम् अचिन्तयत्?
उत्तरं – शृगाल: अचिन्तयत्-” अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?”

(घ) शृगालः कुत्र पलायित: ?
उत्तरं – शृगाल: दूरं पलायित:।

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
उत्तरं – गुहासमीपमागत्य शृगालः पश्यति यावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, तावत् न च बहिरागता।

(च) क: शोभते?
उत्तरं – य: अनागतं कुरुते स: शोभते।

4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) क्षुधार्त: सिंहः कुत्रापि आहारं न प्राप्तवान्
उत्तरं – कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?

(ख) दधिपुच्छ: नाम श्रृगाल: गुहायाः स्वामी आसीत्
उत्तरं – किं नाम श्रृगाल: गुहायाः स्वामी आसीत्?

(ग) एषा गुहा स्वामिन: सदा आह्वानं करोति
उत्तरं – एषा गुहा कस्य सदा आह्वानं करोति?

(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रिया: न प्रवर्तन्ते
उत्तरं – भयसन्त्रस्तमनसां काः क्रिया: न प्रवर्तन्ते?

(ङ) आह्वानेन शृगाल: बिले प्रविश्य सिंहस्य भोज्यं भविष्यति
उत्तरं – आह्वानेन शृगाल: कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति ?

5. घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगालः समागच्छत्।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंहः क्षुधार्तो जातः।
(घ) दूरस्थ: शृगालः रवं कर्तुमारब्ध:।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

उत्तरं –
1.(ग) परिभ्रमन् सिंहः क्षुधार्तो जातः।
2.(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
3.(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगालः समागच्छत्।
4.(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
5.(घ) दूरस्थ: शृगालः रवं कर्तुमारब्ध:।
6.(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
7.(च) दूरं पलायमानः शृगालः श्लोकमपठत्।

6. यथानिर्देशमुत्तरत-

(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
उत्तरं – 1. महतीं।

(ख) तदहम् अस्य आह्वानं करोमि – अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
उत्तरं – सिंहाय।

(ग) ‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरं – त्वं ।

(घ) ‘सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तरं – दृश्यते।

(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरं – अत्र।

7. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् च सहसा

एकस्मिन् वने __________व्याध: जालं विस्तीर्य _________ स्थित:। क्रमशः आकाशात् सपरिवार: कपोतराज: ____________ आगच्छत्। _________कपोताः तण्डुलान् अपश्यन् __________तेषां लोभो जात:। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ____________ वने कोऽपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भव:। _____________राज्ञ: उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले _________निपतिता:।
अत: उक्तम् ‘____________विदधीत न क्रियाम्’।

उत्तरं – एकस्मिन् वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमशः आकाशात् सपरिवार: कपोतराज: आगच्छत्। नीचैः कपोताः तण्डुलान् अपश्यन् तर्हि तेषां लोभो जात:। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भव:। यदा राज्ञ: उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले तदा निपतिता:। अत: उक्तम् ‘सहसा विदधीत न क्रियाम्’।

👍👍👍

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

2 thoughts on “NCERT Solutions for Class 8 Sanskrit Chapter 2- बिलस्य वाणी न कदापि मे श्रुता”

Leave a Comment

error: