Sanskrit Class 9 -Chapter 6 – भ्रान्तो बालः-Hindi & English Translation

षष्ठ: पाठः
भ्रान्तो बालः

व्याकुल
लड़का

प्रस्तुतोऽयं पाठ: “संस्कृत-प्रौढपाठावलिः” इति कथाग्रन्थात् सम्पादनं कृत्वा सङ्गृहीतोऽस्त। अस्यां कथायाम् एकः तादृशः बाल: चित्रितोऽस्ति, यस्य रुचि: स्वाध्यायापेक्षया क्रीडने अधिका भवति। सः सर्वदा क्रीडनार्थमेव अभिलषति परञ्च तस्य सखायः स्वस्व-कर्मणि संलग्ना: भवन्ति। अस्मात् कारणात् ते अनेन सह न क्रीडन्ति। अतः एकाकी सः नैराश्यं प्राप्य विचिन्तयति यत् स एव रिक्त: सन् इतस्तत: भ्रमति। कालान्तरे बोधो भवति यत् सर्वेऽपि स्व-स्वकार्यं कुर्वन्तः सन्ति अतो मयापि तदेव कर्तव्यं येन मम कालः सार्थक: स्यात्।

भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितम् अगच्छत्। किन्तु तेन सह केलिभि: कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत् । यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्। तन्द्रालुः बालः लज्जया तेषां दूष्टिपथमपि परिहरनु एकाकी किमपि उद्यानं प्राविशत् ।

स: अचिन्तयत् – “विरमन्तु एते वराका: पुस्तकदासा:। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालयं गत्वा भूयः क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिन: प्राणिन एव मम वयस्या: सन्तु इति।

अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्रिवारं आह्वयत् । तथापि स: मधुकरः अस्य बालस्य आह्वानं तिरस्कृतवान्। ततो भूयो भूय: हठमाचरति बाले सः मधुकरः अगायत् -“वयं हि मधुसंग्रहव्यग्रा ” इति।

तदा स बालः ‘अलं भाषणेन अनेन मिथ्यागर्वितेन कीटेन’ इति विचिन्त्य अन्यत्र दत्तदृष्टिः चञ्च्चा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्, अवदत् च- ” अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि । एहि क्रीडावः। एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति। स तु ” मया वटदुमस्य शाखायां नीडं कार्यम्” इत्युक्त्वा स्वकर्मव्यग्रो: अभवत्।

तदा खिन्नो बालक: एते पक्षिणो मानुषेषु नोपगच्छन्ति। तद् अन्वेषयामि अपरं मानुषोचितम् विनोदयितारम् इति विचिन्त्य पलायमानं कमपि श्वानम् अवलोकयत्। प्रीतो बाल: तम् इत्थं समबोधयत् – रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुरः प्रत्यवदत्-

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।

सर्वै: एवं निषिद्ध: स बालो भग्नमनोरथः सन्-‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति। न कोऽपि मामिव वृथा कालक्षेपं सहते। नम एतेभ्य: यैः मे तन्द्रालुतायां कुत्सा समापादिता। अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्। ततः प्रभृति स विद्याव्यसनी भूत्वा महतीं वैदुषीं प्रथां सम्पदं च अलभत ।

Sanskrit Class 9- Chapter 6 – भ्रान्तो बालःHindi translation ended here!👍👍👍

About the Author:

Leave a Reply

Your email address will not be published. Required fields are marked *

error: