Sanskrit Class 9-Chapter 9-सिकतासेतुः-Hindi & English Translation

नवम: पाठः
Chapter 9-सिकतासेतुः

रेत का पुल
Sand bridge

प्रस्तुत: नाट्यांशः सोमदेवविरचितः “कथासरित्सागरः ” इत्यस्य सप्तमाध्यायोपरि आधारितोऽस्ति। अस्मिन् नाट्यांशे तपसा विद्यां प्राप्तुं यत्नशील: कश्चित् तपोदत्तनामकः कुमारः चित्रित: अस्ति। तस्य मार्गदर्शनाय पुरुषवेषधारी देवराज: इन्द्रः तत्र आगतवान् तत्र आगत्य देवराज: सिकताभि: सेतुनिर्माणार्थं प्रयतते। एतद् दृष्ट्वा तपोदत्तः प्रहसन् वदति किमर्थं भो ! बालुकाभिः जलबन्धं निर्मासि? ततो देवराज: प्रतिवक्ति यद् यद् अध्ययनं श्रवणं पठनं विना यदि त्वं विद्यां प्राप्तुं शक्नोषि तदा अहमपि बालुकाभि: सेतुनिर्माणं कर्तुं शक्नोमि। देवराजस्य अभिप्रायं ज्ञात्वा तपोदत्तः विद्याप्राप्तिकाम: गुरुकुलं गतवान्।

(ततः प्रविशति तपस्यारतः तपोदत्तः)

तपोदत्तः – अहमस्मि तपोदत्तः । बाल्ये पितृचरणै: क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि। तस्मात् सर्वे: कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्॥
(ऊर्ध्वं नि:श्वस्य)
हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदाएतदपि न चिन्तितं यत्-
परिधानैरलङ्कारैर्भूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे ।। 1 ।।

(किञ्चिद् विमृश्य)
भवतु, किम् एतेन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि ।
(जलोच्छलनध्वनिः श्रूयते)
अये कुतोऽयं कल्लोलोच्छलनध्वनिः? महामत्स्यो मकरो वा भवेत्। पश्यामि
तावत्।

( पुरुषमेकं सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं दृष्ट्वा सहासम्)
हन्त! नास्त्यभावो जगति मूर्खाणाम्! तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते!
(साट्टहासं पार्श्वमुपेत्य)

भो महाशय! किमिदं विधीयते! अलमलं तव श्रमेण। पश्य,
रामो बबन्ध यं सेतुं शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्।।21।
चिन्तय तावत्। सिकताभि: क्वचित्सेतुः कर्तुं युज्यते?

पुरुषः – भोस्तपस्विन्! कथं माम् अवरोधं करोषि । प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।
तपोदत्तः – आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?

पुरुषः – (सोत्प्रासम्) चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधि-रोढुं विश्वसिमि । समुत्प्लुत्यैव गन्तुं क्षमोऽस्म ।
तपोदत्तः – (सव्यङ्ग्यम्) साधु साधु! आञ्जनेयमप्यतिक्रामसि !
पुरुषः – ( सविमर्शम्)
कोऽत्र सन्देह:? किञ्च,
विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम ।।3।।

तपोदत्तः – (सवैलक्ष्यम् आत्मगतम्)
अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमत्र पश्यामि। अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि ! तदियं भगवत्या: शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। पुरुषार्थैरेव लक्ष्यं प्राप्यते।

(प्रकाशम्)
भी नरोत्तम! नाऽहं जाने यत् कोऽस्ति भवान्। परन्तु भवद्भि: उन्मीलितं मे नयनयुगलम्।तपोमात्रेण विद्यामवाप्तुं प्रयतमानः अहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि । तदिदानीं विद्यार्यनाय गुरुकुलमेव गच्छामि।
(सप्रणामं गच्छति)

👍👍👍

About the Author: MakeToss

Leave a Reply

Your email address will not be published. Required fields are marked *

error: