Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 10 – नीतिनवनीतम्

NCERT Solutions for Class 8 Sanskrit Chapter 10 – नीतिनवनीतम्

NCERT Solutions for Class 8 Sanskrit Chapter 10 – नीतिनवनीतम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 10 – नीतिनवनीतम्

NCERT Solutions (Question-Answer)

दशम: पाठः
नीतिनवनीतम्
अभ्यासः

1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) नृणां सम्भवे कौ क्लेशं सहेते?
उत्तरं – मातापितरौ।

(ख) कीदृशं जलं पिबेत्?
उत्तरं – वस्त्रपूतं।

(ग) नीतिनवनीतं पाठः कस्मात् ग्रन्थात् सङ्कलित?
उत्तरं – मनुस्मृते:।

(घ) कीदृशीं वाचं वदेत्?
उत्तरं – सत्यपूतां।

(ङ) दु:खं किं भवति?
उत्तरं – परवशं।

(च) आत्मवशं किं भवति?
उत्तरं – सुखम्।

(छ) कीदृशं कर्म समाचरेत्?
उत्तरं – मनःपूतं।

2. अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-

(क) पाठेऽस्मिन् सुखदु:खयोः किं लक्षणम् उक्तम्?
उत्तरं – पाठेऽस्मिन् परवशं सर्वं दु:खं आत्मवशं सर्वं सुखम् – एतद् सुखदु:खयोः लक्षणं।

(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
उत्तरं – नृणाम् सम्भवे यं मातापितरौ क्लेशं सहेते तस्य निष्कृतिः वर्षशतैः अपि न कर्तुं शक्या।

(ग) “त्रिषु तुष्टेषु तपः समाप्यते’ वाक्येऽस्मिन् त्रयः के सन्ति?
उत्तरं – “त्रिषु तुष्टेषु तपः समाप्यते” – वाक्येऽस्मिन् त्रयः माता, पिता, आचार्य: इति सन्ति।

(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?
उत्तरं – अस्माभिः तादृशं एव कर्मं कर्तव्यम् येन अस्माकम् अन्तरात्मनः परितोषः स्यात्।

(ङ) अभिवादनशीलस्य कानि वर्धन्ते?
उत्तरं – अभिवादनशीलस्य आयुः विद्या यशः बलं च इति चत्वारि वर्धन्ते।

(च) सर्वदा केषां प्रियं कुर्यात्?
उत्तरं – सर्वदा मातापित्रो: आचार्यस्य च प्रियं कुर्यात्।

3. स्थूलपदान्यवलम्ब्य प्रश्ननिर्माणं कुरुत –

(क) वृद्धोपसेविन: आयुर्विद्या यशो बलं न वर्धन्ते।
उत्तरं – कस्य आयुर्विद्या यशो बलं न वर्धन्ते?

(ख) मनुष्यः सत्यपूतां वाचं वदेत्।
उत्तरं – मनुष्यः कीदृशीं वाचं वदेत्
?

(ग) त्रिषु तुष्टेषु सर्व तपः समाप्यते।
उत्तरं – त्रिषु तुष्टेषु सर्वं किं समाप्यते?

(घ) मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
उत्तरं – कौ नृणां सम्भवे अकथनीयं क्लेशं सहेते?

(ङ) तयोः नित्यं प्रियं कुर्यात्।
उत्तरं – कयोः नित्यं प्रियं कुर्यात्?

4. संस्कृतभाषयां वाक्यप्रयोगं कुरुत-

(क) विद्या
उत्तरं – अधुना युगे विद्या अति आवश्यकं अस्ति।

(ख) तपः
उत्तरं – ऋषि वने तप: करोति।

(ग) समाचरेत्
उत्तरं – नित्यं गुरुसेवां समाचरेत्।

(घ) परितोषः
उत्तरं – तस्य वचनं श्रुत्वा माम् परितोष: भवति।

(ङ) नित्यम्
उत्तरं – अहम् नित्यम् पठामि।

5. शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत-

(क) अभिवादनशीलस्य किमपि न वर्धते।
उत्तरं – न।

(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।
उत्तरं – आम्।

(ग) आत्मवशं तु सर्वमेव दु:खमस्ति।
उत्तरं – न।

(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
उत्तरं – आम्।

(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।
उत्तरं – आम्।

(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
उत्तरं – आम्।

6. समुचितपदेन रिक्तस्थानानि पूरयत-

(क) मातापित्रो: तपस: निष्कृतिः ………………….. कर्तुमशक्या। (दशवर्षैरपि/षष्टिः वर्षैरपि/वर्षशतैरपि)।
उत्तरं – मातापित्रो: तपस: निष्कृतिः वर्षशतैरपि कर्तुमशक्या।

(ख) नित्यं वृद्धोपसेविनः ……………….. वर्धन्ते (चत्वारि/पञ्च/षट्)।
उत्तरं – नित्यं वृद्धोपसेविनः चत्वारि वर्धन्ते

(ग) त्रिषु तुष्टेषु …………………. सर्वं समाप्यते (जप:/तप/कर्म)।
उत्तरं – त्रिषु तुष्टेषु तप: सर्वं समाप्यते

(घ) एतत् विद्यात् …………………. लक्षणं सुखदु:खयोः। (शरीरेण/समासेन/विस्तारेण)
उत्तरं – एतत् विद्यात् समासेन लक्षणं सुखदु:खयोः।

(ङ) दृष्टिपूतम् न्यसेत् …………….. (हस्तम्/पादम्/मुखम्)
उत्तरं – दृष्टिपूतम् न्यसेत् पादम्

(च) मनुष्य: मातापित्रो: आचार्यस्य च सर्वदा …………….. कुर्यात्। (प्रियम् अप्रियम् अकार्यम्)
उत्तरं – मनुष्य: मातापित्रो: आचार्यस्य च सर्वदा प्रियम् कुर्यात्।

7. मञ्जूषात: चित्वा उचिताव्ययेन वाक्यपूर्तिं कुरुत-

(क) तयोः ……………. प्रियं कुर्यात्।
उत्तरं – तयोः नित्यं प्रियं कुर्यात्।

(ख) ……….. कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
उत्तरं – यादृशम् कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

(ग) वर्षशतैः ……………. निष्कृतिः न कर्तुं शक्या।
उत्तरं – वर्षशतैः अपि निष्कृतिः न कर्तुं शक्या।

(घ) तेषु ……………. त्रिषु तुष्टेषु तपः समाप्यते।
उत्तरं – तेषु एव त्रिषु तुष्टेषु तपः समाप्यते।

(ङ) ……………. राजा तथा प्रजा
उत्तरं – यथा राजा तथा प्रजा

(च) यावत् सफलः न भवति ……………. परिश्रमं कुरु।
उत्तरं – यावत् सफलः न भवति तावत् परिश्रमं कुरु

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

Leave a Comment

error: