Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 6-गृहं शून्यं सुतां विना

NCERT Solutions for Class 8 Sanskrit Chapter 6-गृहं शून्यं सुतां विना

NCERT Solutions for Class 8 Sanskrit Chapter 6-गृहं शून्यं सुतां विना-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 6-गृहं शून्यं सुतां विना

षष्ठ: पाठः
गृहं शून्यं सुतां विना
अभ्यासः

NCERT Exercise Solutions

1.अधोलिखितानां प्रश्नानाम् उत्ताराणि संस्कृतभाषया लिखत-

(क) दिष्ट्या का समागता?
उत्तरं- दिष्ट्या शालिनी समागता।

(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तरं- राकेशस्य कार्यालये एका गोष्ठी सहसैव निश्चिता।

(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?
उत्तरं- राकेशः शालिनीं चिकित्सिकां प्रति गन्तुं कथयति

(घ) सायंकाले भ्राता कार्यालयात् आगत्य किं करोति?
उत्तरं- सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्त्राणि च परिवर्त्य पूजागृहं गत्वा दीपं प्रज्वालयति भवानीस्तुतिं चापि करोति।

(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तरं- राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।

(च) शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?
उत्तरं- शालिनी भ्रातरम् “कन्यायाः रक्षणे तस्या: पाठने दत्तचित्त: स्थास्यसि पुत्रीं रक्ष, पुत्रीं पाठय” इति प्रतिज्ञा कर्तुं कथयति।

(छ) यत्र नार्यः न पूज्यन्ते तत्र किं भवति?
उत्तरं- यत्र नार्यः न पूज्यन्ते तत्र सर्वाः क्रिया: अफलाः भवन्ति ।

2.अधोलिखितपदानां संस्कृतरूपं (तत्समरूपं) लिखत-

(क) कोख
उत्तरं- कुक्षि।

(ख) साथ
उत्तरं- सह।

(ग) गोद
उत्तरं- क्रोडम्।

(घ) भाई
उत्तरं- भ्रातृ।

(ङ) कुआँ
उत्तरं- कूपः।

(च) दूध
उत्तरं- दुग्धम्।

3.उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(क) मात्रा सह पुत्री गच्छति (मातृ)
(ख) ……… विना विद्या न लभ्यते (परिश्रम)
(ग) छात्र: ……… लिखति (लेखनी)
(घ) सूरदासः ……… अन्धः आसीत् (नेत्र)
(ङ) सः ……… साकम् समयं यापयति। (मित्र)

उत्तरं-
(क) मात्रा सह पुत्री गच्छति (मातृ)
(ख) परिश्रमेण विना विद्या न लभ्यते (परिश्रम)
(ग) छात्र: लेखन्या लिखति (लेखनी)
(घ) सूरदासः नेत्राभ्याम् अन्धः आसीत् (नेत्र)
(ङ) सः मित्रेण साकम् समयं यापयति। (मित्र)

4.’क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-

‘क’ स्तम्भः‘ख’ स्तम्भः  
(1) स्वस्था  (क) कृत्यम्  
(2) महत्वपूर्णा  (ख) पुत्री  
(3) जघन्यम्  (ग) वृत्तिः  
(4) क्रीडन्ती  (घ) मनोदशा  
(5) कुत्सिता  (ङ) गोष्ठी

उत्तरं-

‘क’ स्तम्भः ‘ख’ स्तम्भः  
(1) स्वस्था     (घ) मनोदशा
(2) महत्वपूर्णा    (ङ) गोष्ठी
(3) जघन्यम्    (क) कृत्यम्  
(4) क्रीडन्ती    (ख) पुत्री  
(5) कुत्सिता    (ग) वृत्तिः  

5.अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

(क) श्वः
उत्तरं- अद्य

(ख) प्रसन्ना
उत्तरं- चिन्तिता

(ग) वरिष्ठा
उत्तरं- कनिष्ठा

(घ) प्रशंसितम्
उत्तरं- निघृणम्

(ङ) प्रकाशः
उत्तरं- अन्धकारः

(च) सफलाः
उत्तरं- अफलाः

(छ) निरर्थक:
उत्तरं- सार्थकः

6.रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) प्रसन्नतायाः विषयोऽयम्।
उत्तरं- कस्याः विषयोऽयम्?

(ख) सर्वकारस्य घोषणा अस्ति।
उत्तरं- कस्य घोषणा अस्ति?

(ग) अहम् स्वापराधं स्वीकरोमि।
उत्तरं- अहम् कम् स्वीकरोमि?

(घ) समयात् पूर्वम् आयासं करोषि।
उत्तरं- कस्मात् पूर्वम् आयासं करोषि?

(ङ) अम्बिका क्रोडे उपविशति।
उत्तरं- अम्बिका कुत्र उपविशति?

7.अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

यथा – नोक्तवती   =न  +उक्तवती  
सहसैव  =सहसा  +………  
परामर्शानुसारम्  =………..+अनुसारम्  
वधार्हा  =………..+अर्हा  
अधुनैव  =अधुना  +……….
प्रवृत्तोऽपि  =प्रवृत्तः  +…………

उत्तरं-

यथा – नोक्तवती   =न  +उक्तवती  
सहसैव  =सहसा  +एव
परामर्शानुसारम्  =परामर्श+अनुसारम्  
वधार्हा  =वध+अर्हा  
अधुनैव  =अधुना  +एव
प्रवृत्तोऽपि  =प्रवृत्तः  +अपि

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

1 thought on “NCERT Solutions for Class 8 Sanskrit Chapter 6-गृहं शून्यं सुतां विना”

Leave a Comment

error: