Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9- Chapter 4- कल्पतरूः- NCERT Exercise Solution ( Question-Answer)

Sanskrit Class 9- Chapter 4- कल्पतरूः- NCERT Exercise Solution ( Question-Answer)

CBSE Shemushi Sanskrit Class 9- Chapter 4- कल्पतरूः NCERT Exercise Solution ( Question-Answer) is provided below. Total 7 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 4- कल्पतरूः, all are solved here.

1. एकपदेन उत्तरं लिखत-

(क) जीमूतवाहनः कस्य पुत्रः अस्ति?

उत्तरम्– जीमूतकेतु:।

(ख) संसारेऽस्मिन् कः अनश्वरः भवति?

उत्तरम्- परोपकार:।

(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?

उत्तरम्- कल्पपादपम्।

(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?

उत्तरम्- यश:।

(ङ) कल्पतरुः भुवि कानि अवर्षत्?

उत्तरम्– वसूनि।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?

उत्तरम्- कञ्चनपुरं नाम नगरं हिमालयस्य सनोरूपरि विभाति स्म।

(ख) जीमूतवाहनः कीदृशः आसीत्?

उत्तरम्- जीमूतवाहनः महान् दानवीर: सर्वभूतानुकम्पी च अभवत्।

(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?

उत्तरम्- कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत्- “अहो ईदृशं अमरपादपं प्राप्यापि पूर्वै: पुरूषै: अस्माकं तादृशं फ़लम् किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणै: काश्चिदपि अर्थ: अर्थित: . तदहम् अस्मात् कल्पतरो: अभीष्टं साधयामि” इति।

(घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?

उत्तरम्- हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्तः – “युवराज! योऽयं सर्वकामद: कल्पतरु: तवोद्याने तिष्ठति स तव सदा पूज्य:। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।

(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?

उत्तरम्- जीमूतवाहनः कल्पतरुम् उपगम्य उवाच “देव! त्वया अस्मत्पूर्वेषाम् अभीष्टा: कामाः पूरिता:, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव” इति।

3. अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।

उत्तरम्- हिमालयपर्वताय।

(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

उत्तरम्- जीमूतवाहनाय।

(ग) अयं तव सदा पूज्यः।

उत्तरम्- कल्पतरवे।

(घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।

उत्तरम्- जीमूतकेतवे।

4. अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत-

(क) पर्वतः — …………..
(ख) भूपतिः — …………..
(ग) इन्द्रः — …………..
(घ) धनम् — …………..
(ङ) इच्छितम् — …………..
(च) समीपम् — …………..
(छ) धरित्रीम् — …………..
(ज) कल्याणम् — …………..
(झ) वाणी — …………..
(ञ) वृक्षः — …………..

उत्तरम्-

(क) पर्वतः — नग:
(ख) भूपतिः — राजा
(ग) इन्द्रः — शक्र:
(घ) धनम् — वसूनि
(ङ) इच्छितम् — अभीष्टम्
(च) समीपम् — अन्तिकम्
(छ) धरित्रीम् — पृथ्वीम्
(ज) कल्याणम् — हितम्
(झ) वाणी — वाक्
(ञ) वृक्षः — तरू:

5. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत-

‘क’ स्तम्भ‘ख’ स्तम्भ
कुलक्रमागतःपरोपकारः
दानवीरःमन्त्रिभिः
हितैषिभिःजीमूतवाहनः
वीचिवच्चञ्चलम्कल्पतरुः
अनश्वरःधनम्

उत्तरम्-

क’ स्तम्भ‘ख’ स्तम्भ
कुलक्रमागतःकल्पतरुः
दानवीरःजीमूतवाहनः
हितैषिभिःमन्त्रिभिः
वीचिवच्चञ्चलम्धनम्
अनश्वरःपरोपकारः

6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।

उत्तरम्- कस्य कृपया सः पुत्रम् अप्राप्नोत्?

(ख) सः कल्पतरवे न्यवेदयत्।

उत्तरम्- सः कस्मै न्यवेदयत्?

(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।

उत्तरम्- कया कोऽपि दरिद्रः नातिष्ठत्?

(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्।

उत्तरम्- कल्पतरुः कुत्र धनानि अवर्षत्?

(ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।

उत्तरम्- कया जीमूतवाहनस्य यशः प्रासरत्?

7. (क) “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता! एवमेव (कोष्टकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(क) स्वस्ति – ………… (राजा)
(ख) स्वस्ति – ………… (प्रजा)
(ग) स्वस्ति – ……….… (छात्र)
(घ) स्वस्ति – ………… (सर्वजन)

उत्तरम्-

(क) स्वस्ति – राजभ्य: (राजा)
(ख) स्वस्ति – प्रजाभ्य: (प्रजा)
(ग) स्वस्ति – छात्रेभ्य: (छात्र)
(घ) स्वस्ति – सर्वजनेभ्य: (सर्वजन)

7. (ख) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

(क) तस्य …………….. उद्याने कल्पतरुः आसीत्। (गृह)
(ख) सः …………….. अन्तिकम् अगच्छत्। (पितृ)
(ग) …………….. सर्वत्र यशः प्रथितम् (जीमूतवाहन)
(घ) अयं ………………. तरुः? (किम्)

उत्तरम्-

(क) तस्य गृहस्य उद्याने कल्पतरुः आसीत्। (गृह)
(ख) सः पितुः अन्तिकम् अगच्छत्। (पितृ)
(ग) जीमूतवाहनस्य सर्वत्र यशः प्रथितम् (जीमूतवाहन)
(घ) अयं कस्य तरुः? (किम्)

👍👍👍

Hand Written Format

Sanskrit Class 9- Chapter 4- कल्पतरूः - Question 1 with Answer
Sanskrit Class 9- Chapter 4- कल्पतरूः - Question 2 with Answer
Sanskrit Class 9- Chapter 4- कल्पतरूः - Question 3 and 4 with Answer
Sanskrit Class 9- Chapter 4- कल्पतरूः - Question 5 with Answer
Sanskrit Class 9- Chapter 4- कल्पतरूः - Question 6 with Answer
Sanskrit Class 9- Chapter 4- कल्पतरूः - Question 7 with Answer

CBSE Shemushi Sanskrit Class 9– Chapter 4- कल्पतरूः – NCERT Exercise Solution ( Question-Answer) ended 👍👍👍

👍👍👍

34 thoughts on “Sanskrit Class 9- Chapter 4- कल्पतरूः- NCERT Exercise Solution ( Question-Answer)”

  1. Very helpful website for students who study Sanskrit.Love your work and the translations you give are very easy and simple to understand.Thank you very much.

    Reply

Leave a Comment

error: