Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 13-क्षितौ राजते भारतस्वर्णभूमिः

NCERT Solutions for Class 8 Sanskrit Chapter 13-क्षितौ राजते भारतस्वर्णभूमिः

NCERT Solutions for Class 8 Sanskrit Chapter 13-क्षितौ राजते भारतस्वर्णभूमिः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 13-क्षितौ राजते भारतस्वर्णभूमिः

NCERT Solutions (Question-Answer)

त्रयोदश: पाठः
क्षितौ राजते भारतस्वर्णभूमिः
अभ्यासः

1. प्रश्नानाम् उत्तराणि एकपदेन लिखत–

(क) इयं धरा कै: स्वर्णवद् भाति?

उत्तरम्- शस्यै:।

(ख) भारतस्वर्णभूमिः कुत्र राजते?

उत्तरम्- क्षितौ।

(ग) इयं केषां महाशक्तिभिः पूरिता?

उत्तरम्- अणूनाम्।

(घ) इयं भूः कस्मिन् युतानाम् अस्ति?

उत्तरम्- प्रबन्धे।

(ङ) अत्र किं सदैव सुपूर्णमस्ति?

उत्तरम्- खाद्यान्नभाण्डम्।

2. समानार्थकपदानि पाठात् चित्वा लिखत–

(क) पृथिव्याम् ……………………….(क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते ………………………. (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् ………………………. (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् ……………………….(शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् ……………………….(जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

उत्तरम्-

(क) पृथिव्याम् क्षितौ (क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते भाति (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् विपश्चिज्जनानाम् (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् शिखीनाम् (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् बहूनाम् (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

3. श्लोकांशमेलनं कृत्वा लिखत–

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैःनदीनां जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम्जगद्वन्दनीया च भूःदेवगेया
(ग) वने दिग्गजानां तथा केशरीणाम्क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्   अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्यातटीनामियं वर्तते भूधराणाम्

उत्तरम्-

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः अणूनां महाशक्तिभिः पूरितेयम्
(ख) सदा पर्वणामुत्सवानां धरेयम् क्षितौ राजते भारतस्वर्णभूमिः
(ग) वने दिग्गजानां तथा केशरीणाम् तटीनामियं वर्तते भूधराणाम्
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्    नदीनां जलं यत्र पीयूषतुल्यम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या जगद्वन्दनीया च भूःदेवगेया

4. चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

(क) अस्मिन् चित्रे एका …………………………………………………. वहति।
(ख) नदी …………………………………………………. निःसरति।
(ग) नद्याः जलं …………………………………………………. भवति।
(घ) …………………………………………………. शस्यसेचनं भवति।
(ङ) भारतः …………………………………………………. भूमिः अस्ति।

उत्तरम्-

(क) अस्मिन् चित्रे एका नदी वहति।
(ख) नदी पर्वतात् निःसरति।
(ग) नद्याः जलं शुद्धं भवति।
(घ) नदीजलेन शस्यसेचनं भवति।
(ङ) भारतः स्वर्ण भूमिः अस्ति।

5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे ………………………………………….दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ……………………………………………….. युद्धे भवति।
(ग) भारतः एतादृशानां …………………………………….प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ………………………………………।
(ङ) आधुनिकै: अस्त्रै: ……………………………………… अस्मान् शत्रुभ्यः रक्षन्ति।
(च) …………………………………………………. सहायतया बहूनि कार्याणि भवन्ति।

उत्तरम्-

(क) अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।
(ग) भारतः एतादृशानां अस्त्राणाम् प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि भवति
(ङ) आधुनिकै: अस्त्रै: सैनिकाः अस्मान् शत्रुभ्यः रक्षन्ति।
(च) उपग्रहाणां सहायतया बहूनि कार्याणि भवन्ति।

6.

(अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) ……………………………………………………………………………………………………..
(ख) ……………………………………………………………………………………………………..
(ग) ……………………………………………………………………………………………………..
(घ) ……………………………………………………………………………………………………..
(ङ) ……………………………………………………………………………………………………..

उत्तरम्-

(क) इदं चित्रं दीपावली-उत्सवस्य अस्ति।
(ख) अस्मिन् चित्रे दीपावली आचर्यते।
(ग) अत्र स्त्रियः पुरुषाः च दीपान् प्रज्वालयन्ति।
(घ) सर्वे प्रसन्नाः दृश्यन्ते।
(ङ) जनाः नूतनानि वस्त्राणि धारयन्ति।

(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) ……………………………………………………………………………………………………..
(ख) ……………………………………………………………………………………………………..
(ग) ……………………………………………………………………………………………………..
(घ) ……………………………………………………………………………………………………..
(ङ) ……………………………………………………………………………………………………..

उत्तरम्-

(क) इदं चित्रं रक्षाबन्धनपर्वस्य अस्ति।
(ख) अत्र भगिनी भ्रातुः रक्षणसूत्रं बध्नाति।
(ग) भ्राता भगिनी च प्रसन्नौ स्तः।
(घ) भ्राता स्वभगिनीं उपहारं ददाति।
(ङ) भ्राता स्वभगिन्याः रक्षणमपि प्रतिज्ञां करोति।

7. अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–

उत्तरम्-

(क) इदं चित्रं वनस्य अस्ति।
(ख) अस्मिन् चित्रे अनेके वन्यजीवाः सन्ति।
(ग) तत्र एक: मृगः उपविशति।
(घ) मयूरः इतस्ततः भ्रमति।
(ङ) वने बहवः वृक्षाः सन्ति।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

Leave a Comment

error: