Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 14-आर्यभटः

NCERT Solutions for Class 8 Sanskrit Chapter 14-आर्यभटः

NCERT Solutions for Class 8 Sanskrit Chapter 14-आर्यभटः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 14-आर्यभटः

NCERT Solutions (Question-Answer)

चतुर्दश: पाठः
आर्यभटः
अभ्यासः

1. एकपदेन उत्तरत −

(क) सूर्यः कस्यां दिशायाम् उदेति?
(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
(ग) महान गणितज्ञ: ज्योतिर्विच्च क: अस्ति?
(घ) आर्यभटेन क: ग्रन्थ: रचित:?
(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?

उत्तरम्-

(क) पूर्वदिशायाम्
(ख) पाटलिपुत्रं निकषा
(ग) आर्यभट:
(घ) आर्यभटीयम्
(ङ) आर्यभटः

2. पूर्णवाक्येन उत्तरत–

(क) कः सुस्थापितः सिद्धान्त:?

उत्तरम्- सूर्य: अचल: पृथिवी च चला या स्वकीये अक्षे घूर्णति इति साम्प्रतं सुस्थापित: सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?

उत्तरम्- सूर्यं परित: भ्रमन्त्याः पृथिव्याः, चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति। यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?

उत्तरम्- सूर्यं परित: भ्रमन्त्याः पृथिव्याः, चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति। यदा पृथ्वीसूर्योः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।

(घ) आर्यभटस्य विरोध: किमर्थमभवत्?

उत्तरम्- समाजे नूतनानां विचाराणां स्वीकरणे प्रायः सामान्यजना: काठिन्यमनुभवन्ति। अत एव आर्यभटस्य भारतीयज्योति: शास्त्रे विरोधः अभवत्।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?

उत्तरम्- आधुनिकै: वैज्ञानिकैः आर्यभटे, तस्य च सिद्धान्ते समादर: प्रकटित:। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट: इति कृतम्।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

(क) सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
(ग) आर्यभटस्य योगदानं गणितज्योतिष-संबद्धं वर्तते।
(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य-ग्रहणं भवति

उत्तरम्-

(क) सर्यू: कस्यां दिशायाम् अस्तं गच्छति।
(ख) पृथिवी स्थिरा वर्तते इति कया प्रचलिता रूढिः।
(ग) आर्यभटस्य योगदानं केन संबद्धं वर्तते।
(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुभवन्ति।
(ङ) कयो: मध्ये चन्द्रस्य छाया पातेन सूर्य-ग्रहणं भवति

4. मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत −

नौकाम्, पृथिवी , तदा, चला, अस्तं

(क) सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशायाम्…………. गच्छति।
(ख) सूर्य: अचल: पृथिवी च ………….
(ग) …………. स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाश: अवरूध्यते …………. चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्ट: मानव: …………. स्थिरामनुभवति।

उत्तरम्-

(क) सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशायाम्अस्तं गच्छति।
(ख) सूर्य: अचल: पृथिवी च चला
(ग) पृथिवी स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाश: अवरूध्यते तदा चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति।

5. सन्धिविच्छेदं कुरूत −

ग्रन्थोऽयम् – ………………. +……………….
सूर्याचल: – ………………. +……………….
तथैव – ………………. +……………….
कालातिगामिनी – ………………. +……………….
प्रथमोपग्रहस्य – ………………. +……………….

उत्तरम्-

ग्रन्थोऽयम् – ग्रन्थ: + अयम्
सूर्याचल: – सूर्य + अचल:
तथैव – तथा + एव
कालातिगामिनी – काल + अतिगामिनी
प्रथमोपग्रहस्य – प्रथम + उपग्रहस्य

6.
(अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत–

उदयः ……………….
अचलः ……………….
अन्धकारः ……………….
स्थिरः ……………….
समादरः ……………….
आकाशस्य ……………….

उत्तरम्-

उदयःअस्त:
अचलः – चलः
अन्धकारः – प्रकाशः
स्थिरः – अस्थिरः/ गतिशीलः
समादरः – निरादर:/विरोधः
आकाशस्य – पृथिव्याः

(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे ……………….
इदानीम् ……………….
वसुन्धरा ……………….
समीपम् ……………….
गणनम् ……………….
राक्षसौ ……………….

उत्तरम्-

संसारे – लोके
इदानीम् – साम्प्रतं
वसुन्धरा – पृथिवी
समीपम् – निकषा
गणनम् – आकलनम्
राक्षसौ – दानवौ

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

साम्प्रतम् – ………………………………………………………………….
निकषा – ………………………………………………………………….
परितः – ………………………………………………………………….
उपविष्टः – ………………………………………………………………….
कर्मभूमिः – ………………………………………………………………….
वैज्ञानिकः – ………………………………………………………………….

उत्तरम्-

साम्प्रतम् – साम्प्रतं अहम् विद्यालयात् गृहं गच्छामि।
निकषा – विद्यालयं निकषा मम गृहं अस्ति।
परितः –प्रातःकाले अहम् ग्रामं परितः भ्रमामि।
उपविष्टः – वृक्षे एक: शुकः उपविष्टः अस्ति।
कर्मभूमिः – संसारः एव जीवानां कर्मभूमिः वर्तते।
वैज्ञानिकः – आर्यभटः भारतस्य एक: प्राचीन: वैज्ञानिकः आसीत्।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

Leave a Comment

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
Best Wordpress Adblock Detecting Plugin | CHP Adblock
error: