Sanskrit Class 9- Chapter 4- कल्पतरूः-Hindi & English Translation

चतुर्थ: पाठः
कल्पतरूः

कल्पवृक्ष
Tree of Heaven

प्रस्तुतोऽयं पाठ: “वेतालपञ्चविंशति:” इति प्रसिद्धकथासङ्ग्रहात् सम्पादनं कृत्वा संगृहीतोऽस्ति। अत्र मनोरञ्जकघटनाभिः विस्मयकारिघटनाभिश्च जीवनमूल्यानां निरूपणं वर्तते। अस्यां कथायां पूर्वकालत: एव स्वगृहोद्याने स्थितकल्पवृक्षेण जीमूतवाहन: लौकिकपदार्थान् न याचते। अपितु सः सांसारिकप्राणिनां दु:खानि अपाकरणाय वरं याचते। यतो हि लोकभोग्याः भौतिकपदार्था: जलतरङ्गवद् अनित्याः सन्ति। अस्मिन् संसारे केवलं परोपकारः चिरस्थायि तत्त्वम् अस्ति।

अस्ति हिमवान् नाम सर्वरत्नभूमिः नगेन्द्र:। तस्य सानो: उपरि विभाति कञ्चनपुरं नाम नगरम् तत्र जीमूतकेतु: इति श्रीमान् विद्याधरपति: वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरु: स्थित:। स राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्। स : जीमूतवाहनः महान् दानवीर: सर्वभूतानुकर्पी च अभवत्। तस्य गुणैः प्रसन्न: स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्। कदाचित् हितैषिणः पितृमन्त्रिणः यौवराज्ये स्थितं तं जीमूतवाहनं उक्तवन्तः- “युवराज! योऽयं सर्वकामद: कल्पतरु: तवोद्याने तिष्ठति स तव सदा पूज्य:। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।

एतत् आकर्ण्य जीमूतवाहन: अचिन्तयत् पुरुषैः अस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थ: अर्थित :। तदहम् अस्मात् कल्पतरोः अभीष्टं साधयामि ” इति। एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्। आगत्य च सुखमासीनं पितरम् एकान्ते न्यवेदयत्- “तात! त्वं तु जानासि एव यदस्मिन् संसारसागरे आशरीरम् इदं सर्व धनं वीचिवत् चञ्चलम्। एक: परोपकार एव अस्मिन् संसारे अनश्वर: यो युगान्तपर्यन्तं यशः प्रसूते। तद् अस्माभि: ईदृशः कल्पतरु: किमर्थं रक्ष्यते? यैश्च पूर्वैरयं ‘मम मम’ इति आग्रहेण रक्षित:, ते इदानीं कुत्र गता:? तेषां कस्यायम्? अस्य वा के ते? तस्मात् परोपकारैकफलसिद्धये त्वदाज्ञया इमं कल्पपादपम् आराधयामि ।

अथ पित्रा ‘तथा’ इति अभ्यनुज्ञात: स जीमूतवाहन: कल्पतरुम् उपगम्य उवाच – “देव! त्वया अस्मत्पूर्वेषाम् अभीष्टा: कामाः पूरिताः, तन्ममैकं कामं पूरय । यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव” इति। एवंवादिनि जीमूतवाहने “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोः उदभूत्।

क्षणेन च स कल्पतरु: दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यश: प्रथितम्।

Sanskrit Class 9- Chapter 4- कल्पतरूःHindi translation ended here!👍👍👍

About the Author:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: