Sanskrit Class 9- Chapter 7 – प्रत्यभिग्यानम्-Hindi & English Translation

सप्तम: पाठः
प्रत्यभिग्यानम्

फिर से पहचान
Re-identification

प्रस्तुतोऽयं पाठ: महाकविभासप्रणीतम् “पञ्चरात्रम्” इति नाटकात् सम्पाद्य सङ्गृहीतोऽस्ति।अत्र नाटकांशे दुर्योधनादिना राजञः विराटस्य गाव: अपहृता:, तेषाम् उन्मोचनार्थम् विराटपुत्र: उत्तर: अस्य सारथिरूपेण बृहन्नलावेषधारी अर्जुनश्च उभावपि गतवन्तौ। तत्पक्षत: भीष्मादिना सह अर्जुनपुत्र: अभिमन्युरपि युद्धं कृतवान् युद्धे कौरवाणां पराजय: अभवत्। अस्मित्रेव क्षणे राजभवने सूचना सम्प्राप्ता यद् वल्लभ इति वेषधारिणा भीमेन रणभूमौ अभिमन्युः आबद्ध:।गृहीतः अभिमन्युः अर्जुनभीमौ न प्रत्यभिजानाति, तेन स उभाभ्यां सह सरोषं वार्तालापं करोति।
ततः उभौ अभिमन्युं राजसभायां नयत:, तत्र उपस्थित: राजकुमारः उत्तरः उभयोः रहस्यं बोधयति अनेन छद्मवेषधारिणां पाण्डवानाम् अभिज्ञानं भवति।

भट: – जयतु महाराज:।
राजा – अपूर्व इव ते हर्षों ब्रहि केनासि विस्मित:?
भट: – अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गत:।।
राजा – कथमिदानीं गृहीत:?
भटः – रथमासाद्य निश्शङ्क बाहुभ्यामवतारितः।
राजा – केन?
भटः – यः किल एष नरेन्द्रेण विनियुक्तो महानसे। (अभिमन्युमुद्दिश्य) इत इतः कुमार:।

अभिमन्युः -भोः को नु खल्वेष:? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि ।
बृहन्नला – इत इत: कुमार:।
अभिमन्युः – अये! अयमपरः क: विभात्युमावेषमिवाश्रितो हर:।
बृहन्नला – आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः।
वल्लभः – (अपवार्य) बाढम् (प्रकाशम्) अभिमन्यो!
अभिमन्युः – अभिमन्युर्नाम?

वल्लभः – रुष्यत्येष मया, त्वमेवैनमभिभाषय।
बृहन्नला – अभिमन्यो!
अभिमन्युः – कथं कथम्। अभिमन्युन्नामाहम्। भोः! किमत्र विराटनगरे क्षत्रियवंशोद्भूता:
नीचै: अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः। अतएव तिरस्क्रियते।
बृहन्नला – अभिमन्यो! सुखमास्ते ते जननी?

अभिमन्युः – कथं कथम्? जननी नाम? किं भवान् मे पिता अथवा पितृव्य:? कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छति?
बृहन्नला – अभिमन्यो! अपि कुशली देवकीपुत्रः केशव:?
अभिमन्युः – कथं कथम्? तत्रभवन्तमपि नाम्ना। अथ- किम् अथ किम् ?
(बृहन्नलावल्लभौ परस्परमवलोकयतः)
अभिमन्युः – कथमिदानीं सावज्ञमिव मां हस्यते?
बृहन्नला – न खलु किञ्चित्।

पार्थ पितरमुद्दिश्य मातुलं च जनार्दनम्।
तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥

अभिमन्युः – अलं स्वच्छन्दप्रलापेन! अस्माकं कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान् पश्य, मदूते अन्यत् नाम न भविष्यति।
बृहन्नला – एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीत: ?
अभिमन्युः – अशस्त्रं मामभिगत:। पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति। अतः अशस्त्रोऽयं मां वज्चयित्वा गृहीतवान्।

राजा – त्वर्यतां त्वर्यतामभिमन्युः।
बृहन्नला – इत इत: कुमारः। एष महाराज: उपसर्पतु कुमार:।
अभिमन्युः – आ:। कस्य महाराज:?
राजा – एह्येहि पुत्र! कथं न मामभिवादयसि ? (आत्मगतम्) अहो! उत्सिक्त: खल्वयं
क्षत्रियकुमारः। अहमस्य दर्प्रशमनं करोमि । (प्रकाशम्) अथ केनारय गृहीत: ?

भीमसेनः – महाराज! मया।
अभिमन्युः – अशस्त्रेणेत्यभिधीयताम्।
भीमसेनः – शान्तं पापम्। धनुस्तु दुर्बले: एव गृह्यते। मम तु भुजौ एव प्रहरणम्।
अभिमन्युः – मा तावद् भोः ! कि भवान् मध्यम: तात: यः तस्य सदृशं वचः वदति।
भगवान् – पुत्र! कोऽयं मध्यमो नाम?
अभिमन्युः – योक्त्रयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।
असह्यं कर्म तत् कृत्वा नीत: कृष्णौऽतदर्हताम् ।

राजा – न ते क्षेपेण रुप्यामि, रुष्यता भवता रमे।
किमुवत्वा नापराद्धोऽ्हं, कथं तिष्ठति यात्वति ।।
अभिमन्युः – यद्यहमनुग्राह्यः –
पादयो: समुदाचारः क्रियतां निग्रहोचित:।
बाहुभ्यामाहृत भीमः बाहुभ्यामेव नेष्यति।
(ततः प्रविशत्युक्तरः)
उत्तरः – तात! अभिवादये!

राजा – आयुष्मान् भव पुत्र पूजिता: कृतकर्माणो योधपुरुषाः।
उत्तरः – पूज्यतमस्य क्रियतां पूजा।
राजा – पुत्र! कस्मै?
उत्तरः – इहात्रभवते धनञ्जयाय।
राजा – कथं धनञ्जयायेरति?
उत्तर: – अथ किम्
श्मशानाद्धनुरादाय तूणीराक्षयरायके।
नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः।

राजा – एवमेतत्।
उत्तरः – व्यपनयतु भवाज्छडाम्। अयमेव अस्ति धनुर्धर: धनब्जयः।।
बृहन्नला – यद्यहं अर्जुन: तर्हि अयं भीमसेन: अयं च राजा युधिष्ठर: ।
अभिमन्युः – इहात्रभवन्तो मे पितरः। तेन खलु …
न रुप्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम्।
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिता:॥
(इति क्रमेण सर्वान् प्रणमति, सर्वे च तम् आालिङ्गन्ति)

👍👍👍

About the Author: MakeToss

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: